Sukta 5.44
सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा । उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥
स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ व॒: सचा॑ । उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥
sadāpṛṇó yajató ví dvíṣo vadhīd bāhú-vṛktaḥ śrutá-vit táryo vaḥ sácā | ubhā́ sá várā práty eti bhā́ti ca yád īṃ gaṇáṃ bhájate suprayā́va-bhiḥ ||
Ever-fulfilling, the adorable slays the hostile movements; with arms outstretched he is the knower of what is heard, the rescuer who moves with you. He comes to both boons and he shines, when he shares himself with the host of powers by their beautiful goings.
स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ । उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥सदापृणः । यजतः । वि । द्विषः । वधीत् । बाहुवृक्तः । श्रुतवित् । तर्यः । वः । सचा । उभा । सः । वरा । प्रति । एति । भाति । च । यत् । ईम् । गणम् । भजते । सुप्रयावभिः ॥sadāpṛṇaḥ | yajataḥ | vi | dviṣaḥ | vadhīt | bāhu-vṛktaḥ | śruta-vit | taryaḥ | vaḥ | sacā | ubhā | saḥ | varā | prati | eti | bhāti | ca | yat | īm | gaṇam | bhajate | suprayāva-bhiḥ