Sukta 5.44
श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥
श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिन॑: । सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥
śyénā āsām áditiḥ kakṣyò mádo viśvá-vārasya yajátasya māyínaḥ | sám anyám-anyam arthayanty étave vidúr vi-sā́ṇaṃ parí-pānam ánti te ||
The swift-flying force is theirs; Infinity is their girdle; their ecstasy belongs to the all-desirable, the adorable, the master of luminous formations. They spur one another to the journey; they know the wide-horned, the encompassing drink—near to them.
श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ । सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसाण॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते॒ ॥श्येनः । आसाम् । अदितिः । कक्ष्यः । मदः । विश्ववारस्य । यजतस्य । मायिनः । सम् । अन्यम्अन्यम् । अर्थयन्ति । एतवे । विदुः । विसाणम् । परिपानम् । अन्ति । ते ॥śyenaḥ | āsām | aditiḥ | kakṣyaḥ | madaḥ | viśva-vārasya | yajatasya | māyinaḥ | sam | anyam-anyam | arthayanti | etave | viduḥ | vi-sāṇam | pari-pānam | anti | te