Sukta 5.41
अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः । धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे ॥
अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः । धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥
abhí vo arce poṣyā́vato nṝ́n vā́stoṣpátiṃ tváṣṭāraṃ rárāṇaḥ | dhányā sajóṣā dhiṣáṇā námobhir vánaspatīṃr óṣadhī rāyá eṣé ||
I chant toward you the nourishing powers among men—Vāstoṣpati and Tvaṣṭṛ—rejoicing in the shaping. Auspicious and in one accord, Dhiṣaṇā with acts of homage, and the lords of the forest, the healing plants: for the sake of plenitude (rayi) I seek them.
अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्याऽव॑तः । नॄन् । वास्तोः॑ । पति॑म् । त्वष्टा॑रम् । ररा॑णः । धन्या॑ । स॒ऽजोषाः॑ । धि॒षणा॑ । नमः॑ऽभिः । वन॒स्पती॑न् । ओष॑धीः । रा॒यः । एषे॑ ॥अभि । वः । अर्चे । पोष्यावतः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः । धन्या । सजोषाः । धिषणा । नमःभिः । वनस्पतीन् । ओषधीः । रायः । एषे ॥abhi | vaḥ | arce | poṣyāvataḥ | nṝn | vāstoḥ | patim | tvaṣṭāram | rarāṇaḥ | dhanyā | sa-joṣāḥ | dhiṣaṇā | namaḥ-bhiḥ | vanaspatīn | oṣadhīḥ | rāyaḥ | eṣe