Sukta 5.41
उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः । उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम् ॥
उप॑ व॒ एषे॒ वन्द्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः । उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञम् ॥
úpa va eṣé vándyebhiḥ śūṣáiḥ prá yahvī́ diváś citáyadbhir arkáiḥ | uṣásā náktā vidúṣīva víśvam ā́ há vahato martyā́ya yajñám ||
I draw near with forces worthy of adoration, with hymns that awaken even the heaven. Dawn and Night, as if knowing all, bring here the whole sacrifice for the mortal—carry it into our embodied field of offering.
उप॑ । वः॒ । एषे॑ । वन्द्ये॑भिः । शू॒षैः । प्र । य॒ह्वी इति॑ । दि॒वः । चि॒तय॑त्ऽभिः । अ॒र्कैः । उ॒षसा॒नक्ता॑ । वि॒दुषी॑इ॒वेति॑ वि॒दुषी॑ऽइव । विश्व॑म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या॑य । य॒ज्ञम् ॥उप । वः । एषे । वन्द्येभिः । शूषैः । प्र । यह्वी इति । दिवः । चितयत्भिः । अर्कैः । उषसानक्ता । विदुषीइवेति विदुषीइव । विश्वम् । आ । ह । वहतः । मर्त्याय । यज्ञम् ॥upa | vaḥ | eṣe | vandyebhiḥ | śūṣaiḥ | pra | yahvī iti | divaḥ | citayat-bhiḥ | arkaiḥ | uṣasānaktā | viduṣīivetividuṣī-iva | viśvam | ā | ha | vahataḥ | martyāya | yajñam