Sukta 5.41
प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः । इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥
प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः । इ॒षु॒ध्यव॑ ऋत॒साप॒: पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धु॑: ॥
prá vo vāyúṃ rathayújaṃ kṛṇudhvaṃ prá deváṃ vípraṃ panitā́ram arkáiḥ | iṣudhyáva ṛtasā́paḥ purandhī́r vasvī́r no átra patnī́r ā dhíye dhuḥ ||
Yoke for yourselves Vāyu, joined to the chariot—set the divine inspired one in front with hymns, the awakener who kindles delight. O arrow-ready powers, companions of the Truth, may the rich fulfillments (purandhīs), as our here-present partner-powers, be set into our thought for its increase.
प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र॑म् । प॒नि॒तार॑म् । अ॒र्कैः । इ॒षु॒ध्यवः॑ । ऋ॒त॒ऽसापः॑ । पुर॑म्ऽधीः । वस्वीः॑ । नः॒ । अत्र॑ । पत्नीः॑ । आ । धि॒ये । धु॒रिति॑ धुः ॥प्र । वः । वायुम् । रथयुजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः । इषुध्यवः । ऋतसापः । पुरम्धीः । वस्वीः । नः । अत्र । पत्नीः । आ । धिये । धुरिति धुः ॥pra | vaḥ | vāyum | ratha-yujam | kṛṇudhvam | pra | devam | vipram | panitāram | arkaiḥ | iṣudhyavaḥ | ṛta-sāpaḥ | puram-dhīḥ | vasvīḥ | naḥ | atra | patnīḥ | ā | dhiye | dhuritidhuḥ