Sukta 5.41
प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः । सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् ॥
प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः । सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणा॑म् ॥
prá vo rayíṃ yuktā́śvaṃ bharadhvaṃ rāyá eṣé’váse dadhīta dhī́ḥ | suśéva évair auśijásya hótā yé va evā́ marutas turā́ṇām ||
Bring forth for you the plenitude (rayi) that is yoked with swift steeds—an abundance of energies. For the sake of that fullness, let the thought (dhī) be set in its right placing for help. The gracious Hotṛ of Auśija, with his impelling powers, calls those very Maruts—swift in their rush—to our inner offering.
प्र । वः॒ । र॒यिम् । यु॒क्तऽअ॑श्वम् । भ॒र॒ध्व॒म् । रा॒यः । एषे॑ । अव॑से । द॒धी॒त॒ । धीः । सु॒ऽशेवः॑ । एवैः॑ । औ॒शि॒जस्य॑ । होता॑ । ये । वः॒ । एवाः॑ । म॒रु॒तः॒ । तु॒राणा॑म् ॥प्र । वः । रयिम् । युक्तअश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः । सुशेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम् ॥pra | vaḥ | rayim | yukta-aśvam | bharadhvam | rāyaḥ | eṣe | avase | dadhīta | dhīḥ | su-śevaḥ | evaiḥ | auśijasya | hotā | ye | vaḥ | evāḥ | marutaḥ | turāṇām