Sukta 5.41
प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥
प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः । पू॒षा भग॑: प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥
prá sakṣáṇo divyáḥ káṇva-hotā tritó diváḥ sajóṣā vā́to agníḥ | pūṣā́ bhágaḥ prabhṛthé viśvá-bhojā ā́jiṃ ná jagmur āśváśva-tamāḥ ||
Forth go the capable divine Kaṇva-priest, and Trita of heaven in one accord, and Vāta and Agni; Pūṣan and Bhaga, givers of all enjoyments, have reached the course like the best of steeds in the race.
प्र । स॒क्षणः॑ । दि॒व्यः । कण्व॑ऽहोता । त्रि॒तः । दि॒वः । स॒ऽजोषाः॑ । वातः॑ । अ॒ग्निः । पू॒षा । भगः॑ । प्र॒ऽभृ॒थे । वि॒श्वऽभो॑जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व॑श्वऽतमाः ॥प्र । सक्षणः । दिव्यः । कण्वहोता । त्रितः । दिवः । सजोषाः । वातः । अग्निः । पूषा । भगः । प्रभृथे । विश्वभोजाः । आजिम् । न । जग्मुः । आश्वश्वतमाः ॥pra | sakṣaṇaḥ | divyaḥ | kaṇva-hotā | tritaḥ | divaḥ | sa-joṣāḥ | vātaḥ | agniḥ | pūṣā | bhagaḥ | pra-bhṛthe | viśva-bhojāḥ | ājim | na | jagmuḥ | āśvaśva-tamāḥ