Sukta 5.41
आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ । उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥
आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ । उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां॑सीव॒ यज्य॑वे भरध्वम् ॥
ā́ vāṃ yéṣṭhā aśvinā huvádhyai vā́tasya pátman rathyásya puṣṭáu | utá vā divó ásurāya mánma prá andhā́ṃsīva yájyave bharadhvam ||
Come, O eldest Aśvins, to be invoked—on the path of the Wind, in the nourishment of the moving chariot; and bring also from heaven the inspired thought for the lordly power, as one brings light forward through darkness, for the sacrificer.
आ । वा॒म् । येष्ठा॑ । अ॒श्वि॒ना॒ । हु॒वध्यै॑ । वात॑स्य । पत्म॑न् । रथ्य॑स्य । पु॒ष्टौ । उ॒त । वा॒ । दि॒वः । असु॑राय । मन्म॑ । प्र । अन्धां॑सिऽइव । यज्य॑वे । भ॒र॒ध्व॒म् ॥आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य । पुष्टौ । उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसिइव । यज्यवे । भरध्वम् ॥ā | vām | yeṣṭhā | aśvinā | huvadhyai | vātasya | patman | rathyasya | puṣṭau | uta | vā | divaḥ | asurāya | manma | pra | andhāṃsi-iva | yajyave | bharadhvam