Sukta 5.41
ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त । नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥
ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो॑ जुषन्त । नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषा॑: ॥
té no mitró váruṇo aryamā́yur índra ṛbhukṣā́ marúto juṣanta | námobhir vā yé dádhate suvr̥ktíṃ stómaṃ rudrā́ya mīḷhúṣe sajóṣāḥ ||
May Mitra and Varuṇa, Aryaman and the life-power, Indra, the R̥bhukṣans, and the Maruts take delight in us—those who with acts of adoration establish a well-woven word, a hymn for Rudra the bountiful, in one accord.
ते । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । जु॒ष॒न्त॒ । नमः॑ऽभिः । वा॒ । ये । दध॑ते । सु॒ऽवृ॒क्तिम् । स्तोम॑म् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ ॥ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त । नमःभिः । वा । ये । दधते । सुवृक्तिम् । स्तोमम् । रुद्राय । मीळ्हुषे । सजोषाः ॥te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | juṣanta | namaḥ-bhiḥ | vā | ye | dadhate | su-vṛktim | stomam | rudrāya | mīḷhuṣe | sa-joṣāḥ