Sukta 5.41
को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे । ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥
को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे । ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥
kó nu vāṃ mitrāvaruṇāv ṛtāyán divó vā maháḥ pārthivásya vā de | ṛtásya vā sádasi trāsī́thāṃ no yajñāyaté vā paśuṣó na vā́jān ||
Who will truly serve you two, Mitra and Varuṇa, in the heaven or in the great, or in the earthly realm? In the seat of Ṛta, protect us—whether for the sacrificer or for the one who seeks like a herdsman the plenitudes of force.
कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे । ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥कः । नु । वाम् । मित्रावरुणौ । ऋतयन् । दिवः । वा । महः । पार्थिवस्य । वा । दे । ऋतस्य । वा । सदसि । त्रासीथाम् । नः । यज्ञयते । वा । पशुसः । न । वाजान् ॥kaḥ | nu | vām | mitrāvaruṇau | ṛta-yan | divaḥ | vā | mahaḥ | pārthivasya | vā | de | ṛtasya | vā | sadasi | trāsīthām | naḥ | yajña-yate | vā | paśu-saḥ | na | vājān