Sukta 5.41
तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः । सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥
तां वो॑ देवाः सुम॒तिमू॒र्जय॑न्ती॒मिष॑मश्याम वसव॒: शसा॒ गोः । सा न॑: सु॒दानु॑र्मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ गम्याः ॥
tā́ṃ vo devāḥ su-matím ūrjáyantīm íṣam aśyāma vasavaḥ śásā góḥ | sā́ naḥ su-dā́nur mṛḷáyantī devī́ práti drávantī suvitā́ya gamyāḥ ||
That luminous right-mindedness which increases our strength and brings the sustaining plenitude—may we attain it, O gods, O Vasus, by the Word that calls the Light. May that generous Goddess, healing and compassionate, run toward us and be accessible for our good passage and right felicity.
ताम् । वः॒ । दे॒वाः॒ । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तीम् । इष॑म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा॑ । गोः । सा । नः॒ । सु॒ऽदानुः॑ । मृ॒ळय॑न्ती । दे॒वी । प्रति॑ । द्रव॑न्ती । सु॒वि॒ताय॑ । ग॒म्याः॒ ॥ताम् । वः । देवाः । सुमतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः । सा । नः । सुदानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः ॥tām | vaḥ | devāḥ | su-matim | ūrjayantīm | iṣam | aśyāma | vasavaḥ | śasā | goḥ | sā | naḥ | su-dānuḥ | mṛḷayantī | devī | prati | dravantī | suvitāya | gamyāḥ