Sukta 5.41
इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निॠतिर्जग्रसीत ॥
इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः । अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निॠ॑तिर्जग्रसीत ॥
íti cin nu pra-jā́yai paśu-mátyai devā́so vánate mártyo va ā́ devāso vanate mártyo vaḥ | átrā śivā́ṃ tanvò dhāsím asyā́ jarā́ṃ cin me níḥṛtiḥ jagrasīt ||
Thus indeed, for progeny and for the fullness of forces, a mortal wins you, O gods—yes, a mortal wins you. Here may we set a gracious form of our embodied being; may the Power of Dissolution not devour even my aging and decline.
इति॑ । चि॒त् । नु । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ । देवा॑सः । वन॑ते । मर्त्यः॑ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः॑ । वः॒ । अत्र॑ । शि॒वाम् । त॒न्वः॑ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निःऽऋ॑तिः । ज॒ग्र॒सी॒त॒ ॥इति । चित् । नु । प्रजायै । पशुमत्यै । देवासः । वनते । मर्त्यः । वः । आ । देवासः । वनते । मर्त्यः । वः । अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । चित् । मे । निःऋतिः । जग्रसीत ॥iti | cit | nu | pra-jāyai | paśu-matyai | devāsaḥ | vanate | martyaḥ | vaḥ | ā | devāsaḥ | vanate | martyaḥ | vaḥ | atra | śivām | tanvaḥ | dhāsim | asyāḥ | jarām | c it | me | niḥ-ṛtiḥ | jagrasīta