Sukta 5.41
आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् । वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः ॥
आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् । वर्ध॑न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा॑ उ॒दा व॑र्धन्ताम॒भिषा॑ता॒ अर्णा॑: ॥
ā́ daivyā́ni pārthívāni jánmā́paś cā́cchā su-mákhāya vocam | várdhantāṃ dyā́vo gíraś candrā́grā udā́ vardhantām abhisā́tā árṇāḥ ||
I have spoken toward the divine and the earthly births, and to the Waters, for the one of good sacrifice. Let the Heavens grow, and the words whose forefront is luminous; let the surging floods, victorious in their onrush, increase and rise.
आ । दैव्या॑नि । पार्थि॑वानि । जन्म॑ । अ॒पः । च॒ । अच्छ॑ । सुऽम॑खाय । वो॒च॒म् । वर्ध॑न्ताम् । द्यावः॑ । गिरः॑ । च॒न्द्रऽअ॑ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भिऽसा॑ताः । अर्णाः॑ ॥आ । दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सुमखाय । वोचम् । वर्धन्ताम् । द्यावः । गिरः । चन्द्रअग्राः । उदा । वर्धन्ताम् । अभिसाताः । अर्णाः ॥ā | daivyāni | pārthivāni | janma | apaḥ | ca | accha | su-makhāya | vocam | vardhantām | dyāvaḥ | giraḥ | candra-agrāḥ | udā | vardhantām | abhi-sātāḥ | arṇāḥ