Sukta 5.41
विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः ॥
वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः । वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥
vidā́ cit nu mahā́nto yé va evā́ bravāma dasmā́ vā́ryaṃ dádhānāḥ | váyaś caná su-bhvá ā́va yanti kṣubhā́ mártam anuyatáṃ vadhasnáiḥ ||
Indeed, the great ones know—those very ones of yours of whom we speak—wonder-workers bearing the precious plenitude. Even the birds of good becoming come down; but the shaking forces pursue the mortal who follows wrongly, with their smiting powers.
वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः॑ । ब्रवा॑म । द॒स्माः॒ । वार्य॑म् । दधा॑नाः । वयः॑ । च॒न । सु॒ऽभ्वः॑ । आ । अव॑ । य॒न्ति॒ । क्षु॒भा । मर्त॑म् । अनु॑ऽयतम् । व॒ध॒ऽस्नैः ॥विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः । वयः । चन । सुभ्वः । आ । अव । यन्ति । क्षुभा । मर्तम् । अनुयतम् । वधस्नैः ॥vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ | bravāma | dasmāḥ | vāryam | dadhānāḥ | vayaḥ | cana | su-bhvaḥ | ā | ava | yanti | kṣubhā | martam | anu-yatam | vadha-snaiḥ