Sukta 5.41
शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा । शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिर॒: स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा । शृ॒ण्वन्त्वाप॒: पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रे॑: ॥
śṛṇótu na ūrjā́ṃ pátir gíraḥ sá nábhas tárīyāṃ iṣiráḥ paríjmā | śṛṇvántv ā́paḥ púro na śubhrā́ḥ párī srúco babṛhāṇásy ādréḥ ||
May the Lord of plenitude hear our words—he who crosses the mid-air, swift-moving all around. Let the Waters hear, bright as strongholds before us, encircling the streams of offering of the swelling rock (the pressed abundance).
शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा । शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिज्मा । शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥śṛṇotu | naḥ | ūrjām | patiḥ | giraḥ | saḥ | nabhaḥ | tarīyān | iṣiraḥ | pari-jmā | śṛṇvantu | āpaḥ | puraḥ | na | śubhrāḥ | pari | srucaḥ | babṛhāṇasya | adreḥ