Sukta 5.41
कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय । आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥
क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य । आप॒ ओष॑धीरु॒त नो॑ऽवन्तु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥
kathā mahé rudriyā́ya bravāma kadrā́ye cikitúṣe bhágāya | ā́pa óṣadhīr utá no’vantu dyáur vánā giráyo vṛkṣakéśāḥ ||
How shall we speak to the Great one of Rudra’s power, and to Bhaga the knower, for the giving of delight? May the Waters and the healing plants protect us; may Heaven, the forests, and the mountains with tree-hair guard and shelter our path.
क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य । आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय । आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षकेशाः ॥kathā | mahe | rudriyāya | bravāma | kat | rāye | cikituṣe | bhagāya | āpaḥ | oṣadhīḥ | uta | naḥ | avantu | dyauḥ | vanā | girayaḥ | vṛkṣa-keśāḥ