Sukta 5.41
वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति । गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥
वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति । गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥
vṛ́ṣṇo astoṣi bhūmyásya gárbhaṃ tritó nápātam apā́ṃ su-vṛktí | gṛṇī́te agnír etárī na śūṣáiḥ śóciṣkeśo ní riṇāti vánā ||
Thou hast been praised as the strong one, the embryo of the earth—Trita’s child, the offspring of the Waters—by a well-shaped utterance. Agni is sung, advancing with energies: with hair of flame he clears and releases the forests (the tangled growths) within us.
वृष्णः॑ । अ॒स्तो॒षि॒ । भू॒म्यस्य॑ । गर्भ॑म् । त्रि॒तः । नपा॑तम् । अ॒पाम् । सु॒ऽवृ॒क्ति । गृ॒णी॒ते । अ॒ग्निः । ए॒तरि॑ । न । शू॒षैः । शो॒चिःऽके॑शः । नि । रि॒णा॒ति॒ । वना॑ ॥वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुवृक्ति । गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःकेशः । नि । रिणाति । वना ॥vṛṣṇaḥ | astoṣi | bhūmyasya | garbham | tritaḥ | napātam | apām | su-vṛkti | gṛṇīte | agniḥ | etari | na | śūṣaiḥ | śociḥ-keśaḥ | ni | riṇāti | vanā