Sukta 5.40
ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् । अत्रि॒: सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥
grā́vṇo brahmā́ yuyujānás saparyán kīríṇā devā́n námasopáśikṣan | átriḥ sū́ryasya diví cákṣur ā́dhāt svàr-bhānor ápa māyā́ adhukṣat ||
The brahman-priest, setting the pressing-stones to their work, worshipping, instructing the gods with adoration and the hymn—Atri established the Sun’s eye in heaven and milked away the deceits of Svàrbhānu.
ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् । अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपशिक्षन् । अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःभानोः । अप । मायाः । अघुक्षत् ॥grāvṇaḥ | brahmā | yuyujānaḥ | saparyan | kīriṇā | devān | namasā | upa-śikṣan | atriḥ | sūryasya | divi | cakṣuḥ | ā | adhāt | svaḥ-bhānoḥ | apa | māyā | adhukṣat