Sukta 5.40
यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥
yáṃ vai sū́ryaṃ svàr-bhānus támasā́vidhyad āsuráḥ | átrayas tám ánv avindan náhy ànye áśaknuvan ||
That Sun indeed whom the Asuric Svàrbhānu struck with darkness—the Atris followed and found him; none others had the power.
यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः । अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥यम् । वै । सूर्यम् । स्वःभानुः । तमसा । अविध्यत् । आसुरः । अत्रयः । तम् । अनु । अविन्दन् । नहि । अन्ये । अशक्नुवन् ॥yam | vai | sūryam | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | atrayaḥ | tam | anu | avindan | nahi | anye | aśaknuvan