Sukta 5.40
स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥
स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् । गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रि॑: ॥
svàr-bhānor ádha yád indra māyā́ ávo divó vártamānā avā́han | gūḷháṃ sū́ryaṃ támasā́pavratena turī́yeṇa bráhmaṇāvindad átriḥ ||
Then, when the deceits of Svàrbhānu moved below the heaven, O Indra, and bore it down, Atri by the fourth power of the Word found the Sun hidden by darkness that had turned away from the right law.
स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् । गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥स्वःभानोः । अध । यत् । इन्द्र । माया । अवः । दिवः । वर्तमानाः । अवअहन् । गूळ्हम् । सूर्यम् । तमसा । अपव्रतेन । तुरीयेण । ब्रह्मणा । अविन्दत् । अत्रिः ॥svaḥ-bhānoḥ | adha | yat | indra | māyā | avaḥ | divaḥ | vartamānāḥ | ava-ahan | gūḷham | sūryam | tamasā | apa-vratena | turīyeṇa | brahmaṇā | avindat | atri ḥ