Sukta 5.40
यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥
यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥
yát tvā sū́rya svàr-bhānus támasā́vidhyad āsuráḥ | ákṣetravid yáthā múgdho bhúvanāny adīdhayuḥ ||
When the Asuric Svàrbhānu struck you, O Sun, with darkness, the worlds were bewildered, as one who knows not the field loses the way and cannot set the right lights in order.
यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः । अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥यत् । त्वा । सूर्य । स्वःभानुः । तमसा । अविध्यत् । आसुरः । अक्षेत्रवित् । यथा । मुग्धः । भुवनानि । अदीधयुः ॥yat | tvā | sūrya | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | akṣetra-vit | yathā | mugdhaḥ | bhuvanāni | adīdhayuḥ