Sukta 5.40
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः । वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥
vṛ́ṣā tvā vṛ́ṣaṇaṃ huve vájriñ citrā́bhir ūtíbhíḥ | vṛ́ṣann índra vṛ́ṣabhir vṛtrahantama ||
As the Bull I call thee, the Bull, O wielder of the thunderbolt, with thy many-hued helps; O Indra the Bull, come with thy bull-powers, most mighty Vṛtra-slayer—bring the victorious energy into our being.
वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिभिः । वृषन् । इन्द्र । वृषभिः । वृत्रहन्तम ॥vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama