Sukta 5.40
वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥
vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayáṃ sutáḥ | vṛ́ṣann índra vṛ́ṣabhir vṛtrahantama ||
Bull is the pressing-stone, bull is the ecstasy, bull is this Soma pressed; therefore, O Indra the Bull, come with thy bull-powers—most mighty Vṛtra-slayer—so that the energizing delight may conquer in us.
वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः । वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः । वृषन् । इन्द्र । वृषभिः । वृत्रहन्तम ॥vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama