Sukta 5.38
नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो । इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥
नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो । इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥
nū ta ābhír abhiṣṭíbhis táva śármañ chatakrato | índra syā́ma su-gopā́ḥ śū́ra syā́ma su-gopā́ḥ ||
Now, by these thy succouring helps, in thy shelter, O hundred-powered one, may we be well-guarded; O Indra, O hero, may we be well-guarded—protected in the luminous keeping of thy force.
नु । ते॒ । आ॒भिः । अ॒भिष्टि॑ऽभिः । तव॑ । शर्म॑न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । स्याम॑ । सु॒ऽगो॒पाः । शूर॑ । स्याम॑ । सु॒ऽगो॒पाः ॥नु । ते । आभिः । अभिष्टिभिः । तव । शर्मन् । शतक्रतो इति शतक्रतो । इन्द्र । स्याम । सुगोपाः । शूर । स्याम । सुगोपाः ॥nu | te | ābhiḥ | abhiṣṭi-bhiḥ | tava | śarman | śatakrato itiśata-krato | indra | syāma | su-gopāḥ | śūra | syāma | su-gopāḥ