Sukta 5.36
वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् । स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥
वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् । स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥
vṛ́ṣā tvā vṛ́ṣaṇaṃ vardhatu dyáur vṛ́ṣā vṛ́ṣabhyāṃ vahase háribhyām | sá no vṛ́ṣā vṛ́ṣa-rathaḥ su-śipra vṛ́ṣa-krato vṛ́ṣā vajrin bháre dhāḥ ||
May the Bull-force, the luminous Heaven, increase you, the Bull of power. As the Bull you are borne by the two bull-steeds, the tawny energies. So, Bull with the bull-chariot, fair-lipped, Bull in will and working, O wielder of the thunder-force—establish for us in the battle the plenitude that is carried.
वृषा॑ । त्वा॒ । वृष॑णम् । व॒र्ध॒तु॒ । द्यौः । वृषा॑ । वृष॑ऽभ्याम् । व॒ह॒से॒ । हरि॑ऽभ्याम् । सः । नः॒ । वृषा॑ । वृष॑ऽरथः । सु॒ऽशि॒प्र॒ । वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो । वृषा॑ । वज्रि॒न् । भरे॑ । धाः॒ ॥वृषा । त्वा । वृषणम् । वर्धतु । द्यौः । वृषा । वृषभ्याम् । वहसे । हरिभ्याम् । सः । नः । वृषा । वृषरथः । सुशिप्र । वृषक्रतो इति वृषक्रतो । वृषा । वज्रिन् । भरे । धाः ॥vṛṣā | tvā | vṛṣaṇam | vardhatu | dyauḥ | vṛṣā | vṛṣa-bhyām | vahase | hari-bhyām | saḥ | naḥ | vṛṣā | vṛṣa-rathaḥ | su-śipra | vṛṣakrato itivṛṣa-krato | vṛṣā | vajrin | bhare | dhāḥ