Sukta 5.36
यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट । यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥
यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान्त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट । यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ॥
yó róhitau vā́jinau vā́jinī-vān tri-bhíḥ śatáir sácamānāv ádiṣṭa | yū́ne sám asmai kṣitáyo namantāṃ śrutá-rathāya maruto duvaḥ-yā́ ||
He who yokes the two ruddy, prize-bearing powers, companioned by the three hundreds, has ordained the movement. To that youthful One may the peoples bow together; O Maruts, bring your fostering service to him whose chariot is famed and heard afar.
यः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट । यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥यः । रोहितौ । वाजिनौ । वाजिनीवान् । त्रिभिः । शतैः । सचमानौ । अदिष्ट । यूने । सम् । अस्मै । क्षितयः । नमन्ताम् । श्रुतरथाय । मरुतः । दुवःया ॥yaḥ | rohitau | vājinau | vājinī-vān | tri-bhiḥ | śataiḥ | sacamānau | adiṣṭa | yūne | sam | asmai | kṣitayaḥ | namantām | śruta-rathāya | marutaḥ | duvaḥ-yā