Sukta 5.36
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः । प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥
ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः । प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥
eṣá grā́veva jaritā́ ta indrā́yarti vā́caṁ bṛhád āśuṣāṇáḥ | prá savyéna maghavan yáṁsi rāyáḥ prá dakṣiṇíd harivo mā́ ví venaḥ ||
This singer, like a pressing-stone, drives forth to thee, O Indra, a great utterance, eager in the offering. O bountiful one, extend to us the riches by thy left and by thy right—O lord of the bay steeds, do not turn away from us.
ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः । प्र । से॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥एषः । ग्रावाइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः । प्र । सेव्येन । मघवन् । यंसि । रायः । प्र । दक्षिणित् । हरिवः । मा । वि । वेनः ॥eṣaḥ | grāvāiva | jaritā | te | indra | iyarti | vācam | bṛhat | āśuṣāṇaḥ | pra | sevyena | magha-van | yaṃsi | rāyaḥ | pra | dakṣiṇit | hari-vaḥ | mā | vi | venaḥ