Sukta 5.36
चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः । रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥
च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः । रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसु॑: ॥
cakráṁ ná vṛttáṁ puruhūta vepate máno bhiyā́ me ámater íd adrivaḥ | rathā́d ádhi tvā jaritā́ sadāvṛdha kúvin nu stóṣan maghavan purūvásuḥ ||
Like a wheel that turns, O much-invoked, my mind trembles with fear from incapacity, O stone-bearing one. From the chariot the singer calls to thee, O ever-increasing; will the rich in abundance indeed praise thee, O bountiful lord?
च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒ऽहू॒त॒ । वे॒प॒ते॒ । मनः॑ । भि॒या । मे॒ । अम॑तेः । इत् । अ॒द्रि॒ऽवः॒ । रथा॑त् । अधि॑ । त्वा॒ । ज॒रि॒ता । स॒दा॒ऽवृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒ऽव॒न् । पु॒रु॒ऽवसुः॑ ॥चक्रम् । न । वृत्तम् । पुरुहूत । वेपते । मनः । भिया । मे । अमतेः । इत् । अद्रिवः । रथात् । अधि । त्वा । जरिता । सदावृध । कुवित् । नु । स्तोषम् । मघवन् । पुरुवसुः ॥cakram | na | vṛttam | puru-hūta | vepate | manaḥ | bhiyā | me | amateḥ | it | adri-vaḥ | rathāt | adhi | tvā | jaritā | sadāvṛdha | kuvit | nu | stoṣam | magha-van | puru-vasuḥ