Sukta 5.36
आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे । अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥
आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे । अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥
ā́ te hanū́ harivaḥ śūra śípre rúhat sómo ná párvatasya pṛṣṭhé | ánu tvā rā́jan árvato ná hinván gī́rbhir madema puruhūta víśve ||
To thy jaws, O lord of the bay steeds, O hero—let Soma mount, as on the ridge of a mountain. Following thee, O king, as steeds are urged on, may we all rejoice by our inspired utterances, O much-invoked, in the ecstasy that awakens thy power.
आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे । अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥आ । ते । हनू इति । हरिवः । शूर । शिप्रे इति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे । अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीःभिः । मदेम । पुरुहूत । विश्वे ॥ā | te | hanūiti | hari-vaḥ | śūra | śipreiti | ruhat | somaḥ | na | parvatasya | pṛṣṭhe | anu | tvā | rājan | arvataḥ | na | hinvan | gīḥ-bhiḥ | madema | puru-hūta | viśve