Sukta 5.36
स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् । धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥
स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णाम् । ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥
sá ā́ gamad índro yó vásūnāṁ cíketa dātuṁ dā́mano rayīṇā́m | dhánvacaro ná vaṁsagás tṛṣāṇáś cakamānáḥ píbatu dugdhám áṁśum ||
Let Indra come—he who knows the treasures and is conscious to give, the tamer and disposer of the riches. Like one who ranges the wide spaces, like a creature seeking its pasture, thirsting and desiring, let him drink the pressed and milked Soma-essence.
सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् । ध॒न्व॒ऽच॒रः । न । वंस॑ऽगः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् । धन्वचरः । न । वंसगः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम् ॥saḥ | ā | gamat | indraḥ | yaḥ | vasūnām | ciketat | dātum | dāmanaḥ | rayīṇām | dhanva-caraḥ | na | vaṃsa-gaḥ | tṛṣāṇaḥ | cakamānaḥ | pibatu | dugdham | aṃśum