Sukta 5.35
अस्माकमिन्द्रेहि नो रथमवा पुरंध्या । वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥
अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या । व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥
asmā́kam indréhi no rátham avā́ puraṁdhyā́ | vayáṁ śaviṣṭha vā́ryaṁ diví śrávo dadhīmahi diví stómaṁ manāmahe ||
O Indra, come to our chariot and guard it with thy plenitude of right accomplishing. We, O most mighty, would set in the heaven of consciousness the noble fame (the luminous hearing); in that same heaven we shape and hold our hymn of affirmation.
अ॒स्माक॑म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ॑म् । अ॒व॒ । पुर॑म्ऽध्या । व॒यम् । श॒वि॒ष्ठ॒ । वार्य॑म् । दि॒वि । श्रवः॑ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम॑म् । म॒ना॒म॒हे॒ ॥अस्माकम् । इन्द्र । आ । इहि । नः । रथम् । अव । पुरम्ध्या । वयम् । शविष्ठ । वार्यम् । दिवि । श्रवः । दधीमहि । दिवि । स्तोमम् । मनामहे ॥asmākam | indra | ā | ihi | naḥ | ratham | ava | puram-dhyā | vayam | śaviṣṭha | vāryam | divi | śravaḥ | dadhīmahi | divi | stomam | manāmahe