Sukta 5.34
सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु । युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥
सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ । युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनि॑: ॥
sáṃ yáj janáu sudhánau viśváśardhasāv áved índro maghávā́ góṣu śubhriṣú | yújaṃ hy ànyám ákṛt pravepany úd īṃ gavyáṃ sṛjate sátvabhīr dhúniḥ ||
When Indra the bountiful found the two well-stored peoples, the universal hosts, amid the shining cows (rays), then he made one the yoke-fellow of the other; the driving Shaker, with his powers, releases upward the luminous cattle. Thus he joins divided energies and lifts the rays of knowledge into manifestation.
सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ । युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥सम् । यत् । जनौ । सुधनौ । विश्वशर्धसौ । अवेत् । इन्द्रः । मघवा । गोषु । शुभ्रिषु । युजम् । हि । अन्यम् । अकृत । प्रवेपनी । उत् । ईम् । गव्यम् । सृजते । सत्वभिः । धुनिः ॥sam | yat | janau | su-dhanau | viśva-śardhasau | avet | indraḥ | magha-vā | goṣu | śubhriṣu | yujam | hi | anyam | akṛta | pra-vepanī | ut | īm | gavyam | sṛjate | satva-bhiḥ | dhuniḥ