Sukta 5.34
समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु । दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥
समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ । दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥
sám īṃ paṇér ajati bhójanaṃ múṣe ví dāśúṣe bhajati sūnáraṃ vásu | dúrge caná dhriyate víśva ā́ purú jánō yó asya táviṣīm ácukrudhat ||
He drives off from the Paṇi the hoarded enjoyment for the seeker; he distributes to the giver the strong and radiant riches. Even in hard passages the whole multitude is upheld—whoever has not grown wrathful against his might. Thus the divine Force reclaims the stolen delight and assigns it to the soul that offers.
सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ । दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥सम् । ईम् । पणेः । अजति । भोजनम् । मुषे । वि । दाशुषे । भजति । सूनरम् । वसु । दुःगे । चन । ध्रियते । विश्वः । आ । पुरु । जनः । यः । अस्य । तविषीम् । अचुक्रुधत् ॥sam | īm | paṇeḥ | ajati | bhojanam | muṣe | vi | dāśuṣe | bhajati | sūnaram | vasu | duḥ-ge | cana | dhriyate | viśvaḥ | ā | puru | janaḥ | yaḥ | asya | taviṣīm | acukrudhat