Sukta 5.34
सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः । तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः । तस्मा॒ आप॑: सं॒यत॑: पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥
sahasrasā́m ā́gniveśiṃ gṛṇīṣe śátrim agne upamā́ṃ ketúm aryáḥ | tásmā ā́paḥ saṃyátāḥ pī́payanta tásmin kṣatrám amávat tveṣám astu ||
I praise the thousand-chanting Agniveśi, the rival-conqueror, O Agni, the peerless banner of the Aryan seeker. For him let the gathered waters swell in fullness; in him let the sovereign force become vigorous and luminous. Thus the fire of will becomes the standard of the soul’s rule, nourished by the waters of life.
स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः । तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥सहस्रसाम् । आग्निवेशिम् । गृणीषे । शत्रिम् । अग्ने । उपमाम् । केतुम् । अर्यः । तस्मै । आपः । सम्यतः । पीपयन्त । तस्मिन् । क्षत्रम् । अमवत् । त्वेषम् । अस्तु ॥sahasra-sām | āgni-veśim | gṛṇīṣe | śatrim | agne | upa-mām | ketum | aryaḥ | tasmai | āpaḥ | sam-yataḥ | pīpayanta | tasmin | kṣatram | ama-vat | tveṣam | astu