Sukta 5.34
यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः ॥
यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते । वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥
yásyāvadhīt pitáraṃ yásya mātáraṃ yásya śakró bhrā́taraṃ nā́ta īṣate | vétīd v asya práyatā yatáṃkaro ná kílbiṣād īṣate vásva ā́karaḥ ||
He who struck down father and mother, and before whom even a brother does not stand in resistance—he indeed knows the forward-pressed energies of this being. The one who makes the soul’s effort disciplined and yoked does not fear blame; he becomes a mine of plenitude. Thus Indra’s fierce mastery is the conversion of raw drives into ordered force.
यस्य॑ । अव॑धीत् । पि॒तर॑म् । यस्य॑ । मा॒तर॑म् । यस्य॑ । श॒क्रोअः । भ्रात॑रम् । न । अतः॑ । ई॒ष॒ते॒ । वेति॑ । इत् । ऊँ॒ इति॑ । अ॒स्य॒ । प्रऽय॑ता । य॒त॒म्ऽक॒रः । न । किल्बि॑षात् । ई॒ष॒ते॒ । वस्वः॑ । आ॒ऽक॒रः ॥यस्य । अवधीत् । पितरम् । यस्य । मातरम् । यस्य । शक्रोअः । भ्रातरम् । न । अतः । ईषते । वेति । इत् । ऊँ इति । अस्य । प्रयता । यतम्करः । न । किल्बिषात् । ईषते । वस्वः । आकरः ॥yasya | avadhīt | pitaram | yasya | mātaram | yasya | śakroaḥ | bhrātaram | na | ataḥ | īṣate | veti | it | oṃ iti | asya | pra-yatā | yatam-karaḥ | na | kilbiṣāt | īṣate | vasvaḥ | ākaraḥ