Sukta 5.34
आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः । यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥
आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः । यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥
ā́ yaḥ sómena jaṭháram apípratām ámandata maghávā́ mádhvo ándhasaḥ | yadī́ṃ mṛgā́ya hántave mahā́vadhaḥ sahásrabhṛṣṭim uśánā́ vadháṃ yámat ||
He who, with Soma, filled his belly and grew glad—the bountiful one—by the honeyed draught: when he sought the weapon of a thousand edges to strike the ‘wild-beast’ that resists, then the seer Ushanas fixed for him that slaying-force. Thus delight becomes a sharpened will for the conquest of inner obstruction.
आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः । यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥आ । यः । सोमेन । जठरम् । अपिप्रत । अमन्दत । मघवा । मध्वः । अन्धसः । यत् । ईम् । मृगाय । हन्तवे । महावधः । सहस्रभृष्टिम् । उशना । वधम् । यमत् ॥ā | yaḥ | somena | jaṭharam | apiprata | amandata | magha-vā | madhvaḥ | andhasaḥ | yat | īm | mṛgāya | hantave | mahāvadhaḥ | sahasra-bhṛṣṭim | uśanā | vadham | yamat