Sukta 5.3
अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे । कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे ॥
अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे । क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥
áva spṛdhi pitáraṃ yódhi vidvā́n putró yás te sahasaḥ sū́no ūhé | kadā́ cikitvo abhí cakṣase no 'gne kadā́ṃ ṛtácid yātayāse ||
Strive downward against the Father, do battle as the knowing Son—(you) who are the child of Might, O Agni, in the hidden working. When, O discerning one, will you look upon us with your seeing? When will you drive forward (our path), even by the Truth itself?
अव॑ । स्पृ॒धि॒ । पि॒तर॑म् । योधि॑ । वि॒द्वान् । पु॒त्रः । यः । ते॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । ऊ॒हे । क॒दा । चि॒कि॒त्वः॒ । अ॒भि । च॒क्ष॒से॒ । नः॒ । अ॒ग्ने॒ । क॒दा । ऋ॒त॒ऽचित् । या॒त॒या॒से॒ ॥अव । स्पृधि । पितरम् । योधि । विद्वान् । पुत्रः । यः । ते । सहसः । सूनो इति । ऊहे । कदा । चिकित्वः । अभि । चक्षसे । नः । अग्ने । कदा । ऋतचित् । यातयासे ॥ava | spṛdhi | pitaram | yodhi | vidvān | putraḥ | yaḥ | te | sahasaḥ | sūno iti | ūhe | kadā | cikitvaḥ | abhi | cakṣase | naḥ | agne | kadā | ṛta-cit | yātayāse