Sukta 5.3
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे । कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥
भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से । कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥
bhū́ri nā́ma vándamāno dadhāti pitā́ vaso yádi tát joṣáyāse | kúvid devásya sáhasā cakānáḥ sumnám agnír vanate vāvṛdhānáḥ ||
The one who bows in adoration establishes abundant (good) in the name—if you accept that, O Father of the good. Surely, rejoicing in the god’s might, Agni—growing—wins the grace (sumná), the inner felicity.
भूरि॑ । नाम॑ । वन्द॑मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति॑ । यदि॑ । तत् । जो॒षया॑से । कु॒वित् । दे॒वस्य॑ । सह॑सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥भूरि । नाम । वन्दमानः । दधाति । पिता । वसो इति । यदि । तत् । जोषयासे । कुवित् । देवस्य । सहसा । चकानः । सुम्नम् । अग्निः । वनते । ववृधानः ॥bhūri | nāma | vandamānaḥ | dadhāti | pitā | vaso iti | yadi | tat | joṣayāse | kuvit | devasya | sahasā | cakānaḥ | sumnam | agniḥ | vanate | vavṛdhānaḥ