Sukta 5.3
त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥
त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजन्त ह॒व्यैः । सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥
tvā́m asyā́ vyùṣi deva pū́rve dūtáṃ kṛṇvānā́ ayajanta havyáiḥ | saṃsthé yád agna ī́yase rayīṇā́ṃ devó martáir vásubhir idhyámānaḥ ||
You, in the dawning of this (world or day), the ancients made the divine messenger and worshipped with offerings. When, O Agni, you move in the established seat of the riches, kindled by mortals with the good substances, then the god grows manifest in the human vessel.
त्वाम् । अ॒स्याः । वि॒ऽउषि॑ । दे॒व॒ । पूर्वे॑ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः । स॒म्ऽस्थे । यत् । आ॒ग्ने॒ । ईय॑से । र॒यी॒णाम् । दे॒वः । मर्तैः॑ । वसु॑ऽभिः । इ॒ध्यमा॑नः ॥त्वाम् । अस्याः । विउषि । देव । पूर्वे । दूतम् । कृण्वानाः । अयजन्त । हव्यैः । सम्स्थे । यत् । आग्ने । ईयसे । रयीणाम् । देवः । मर्तैः । वसुभिः । इध्यमानः ॥tvām | asyāḥ | vi-uṣi | deva | pūrve | dūtam | kṛṇvānāḥ | ayajanta | havyaiḥ | sam-sthe | yat | āgne | īyase | rayīṇām | devaḥ | martaiḥ | vasu-bhiḥ | idhyamānaḥ