Sukta 5.3
यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात । जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥
यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात । ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥
yó na ā́go abhy éno bhárāty ádhīd aghám aghaśáṃse dadhāta | jahī́ cikitvo abhíśastim etā́m agne yó no marcáyati dvayéna ||
Whoever brings upon us sin and guilt, and fastens evil on the evil-speaker—slay, O discerning Agni, this hostile imprecation; whoever strikes at us in the double way (open and hidden), crush him back.
यः । नः॒ । आगः॑ । अ॒भि । एनः॑ । भरा॑ति । अधि॑ । इत् । अ॒घम् । अ॒घऽशं॑से । द॒धा॒त॒ । ज॒हि । चि॒कि॒त्वः॒ । अ॒भिऽश॑स्तिम् । ए॒ताम् । अ॒ग्ने॒ । यः । नः॒ । म॒र्चय॑ति । द्व॒येन॑ ॥यः । नः । आगः । अभि । एनः । भराति । अधि । इत् । अघम् । अघशंसे । दधात । जहि । चिकित्वः । अभिशस्तिम् । एताम् । अग्ने । यः । नः । मर्चयति । द्वयेन ॥yaḥ | naḥ | āgaḥ | abhi | enaḥ | bharāti | adhi | it | agham | agha-śaṃse | dadhāta | jahi | cikitvaḥ | abhi-śastim | etām | agne | yaḥ | naḥ | marcayati | dvayena