Sukta 5.3
वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥
व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः । व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥
váyam agne vanuyāma tvó(t)ā vasūyávo havíṣā búdhyamānāḥ | vayáṃ samaryé vidátheṣv áhnāṃ vayáṃ rāyā sahasaspútra mártān ||
May we, O Agni, win by your protection—seeking the riches of being, awakening with the offering. May we in the common struggle, in the gatherings of the days, may we by the plenitude (rayi) win the mortal powers, O son of Might.
व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः । व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥वयम् । अग्ने । वनुयाम । त्वाऊताः । वसुयवः । हविषा । बुध्यमानाः । वयम् । समर्ये । विदथेषु । अह्नाम् । वयम् । राया । सहसः । पुत्र । मर्तान् ॥vayam | agne | vanuyāma | tvāūtāḥ | vasu-yavaḥ | haviṣā | budhyamānāḥ | vayam | sa-marye | vidatheṣu | ahnām | vayam | rāyā | sahasaḥ | putra | martān