Sukta 5.3
न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः । विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥
न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यै॑: प॒रो अ॑स्ति स्वधावः । वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥
ná tvád dhótā pū́rvo agne yájīyān ná kā́vyaiḥ paró asti svadhāvaḥ | viśáś ca yásyā átithir bhávāsi sá yajñéna vanavad deva mártān ||
None is a priest of offering before you, O Agni, none more worthy of sacrifice, none higher even among the seer-poets, O self-powered one. The mortal for whose peoples you become the welcomed Guest—he wins by the sacrifice, O divine Power, the human forces (into right order and possession).
न । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । न । काव्यैः॑ । प॒रः । अ॒स्ति॒ । स्व॒धा॒ऽवः । वि॒शः । च॒ । यस्याः॑ । अति॑थिः । भवा॑सि । सः । य॒ज्ञेन॑ । व॒न॒ऽव॒त् । दे॒व॒ । मर्ता॑न् ॥न । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । न । काव्यैः । परः । अस्ति । स्वधावः । विशः । च । यस्याः । अतिथिः । भवासि । सः । यज्ञेन । वनवत् । देव । मर्तान् ॥na | tvat | hotā | pūrvaḥ | agne | yajīyān | na | kāvyaiḥ | paraḥ | asti | svadhāvaḥ | viśaḥ | ca | yasyāḥ | atithiḥ | bhavāsi | saḥ | yajñena | vana-vat | deva | martān