Sukta 5.3
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥
तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपन्त । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यन्त॑ उ॒शिज॒: शंस॑मा॒योः ॥
táva śriyā́ su-dṛ́śo deva devā́ḥ purū́ dádhānā amṛ́taṃ sapanta | hótar amagníṃ mánuṣo ní ṣeduḥ daśasyánta uśíjaḥ śáṃsam āyóḥ ||
By your splendor, O god, the gods become fair to behold, taking on many forms of immortality. The human beings have seated Agni the Hotṛ within; the eager ones, seeking the right praise, serve him for the gain of plenitude.
तव॑ । श्रि॒या । सु॒ऽदृशः॑ । दे॒व॒ । दे॒वाः । पु॒रु । दधा॑नाः । अ॒मृत॑म् । स॒प॒न्त॒ । होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । द॒श॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥तव । श्रिया । सुदृशः । देव । देवाः । पुरु । दधानाः । अमृतम् । सपन्त । होतारम् । अग्निम् । मनुषः । नि । सेदुः । दशस्यन्तः । उशिजः । शंसम् । आयोः ॥tava | śriyā | su-dṛśaḥ | deva | devāḥ | puru | dadhānāḥ | amṛtam | sapanta | hotāram | agnim | manuṣaḥ | ni | seduḥ | daśasyantaḥ | uśijaḥ | śaṃsam | āyoḥ