Sukta 5.3
त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि । स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥
त्वम॒ङ्ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि । स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥
tvám aṅgá jaritā́raṃ yaviṣṭha víśvāny agne duritā́ti parṣi | stenā́ adṛśran ripávo jánāso 'jñātaketā vṛjinā́ abhūvan ||
You indeed, O youngest (most fresh) Agni, carry the singer across all difficult passages. The thieves became visible; the hostile men—unknown in their intention—were found as crooked forces.
त्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि । स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥त्वम् । अङ्ग । जरितारम् । यविष्ठ । विश्वानि । अग्ने । दुःइता । अति । पर्षि । स्तेनाः । अदृश्रन् । रिपवः । जनासः । अज्ञातकेताः । वृजिनाः । अभूवन् ॥tvam | aṅga | jaritāram | yaviṣṭha | viśvāni | agne | duḥ-itā | ati | parṣi | stenāḥ | adṛśran | ripavaḥ | janāsaḥ | ajñāta-ketāḥ | vṛjināḥ | abhūvan