Sukta 5.3
इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि । नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥
इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि । नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥
imé yāmā́sas tvadrík abhūvan vásave vā tád id ā́go avāci | nā́hā́yam agnír abhíśastaye no ná rī́ṣate vāvṛdhānáḥ párā dāt ||
These goings (courses) have turned toward you—toward the Good (Vasu); that indeed is spoken as our fault. Yet this Agni is not for our imprecation; growing, he is not harmed—he drives it away from us.
इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ । न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥इमे । यामासः । त्वद्रिक् । अभूवन् । वसवे । वा । तत् । इत् । आगः । अवाचि । न । अह । अयम् । अग्निः । अभिशस्तये । नः । न । रिषते । ववृधानः । परा । दात् ॥ime | yāmāsaḥ | tvadrik | abhūvan | vasave | vā | tat | it | āgaḥ | avāci | na | aha | ayam | agniḥ | abhi-śastaye | naḥ | na | riṣate | vavṛdhānaḥ | parā | dāt