Sukta 5.28
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
ágné śárdha mahaté sáubhagāya táva dyumnā́ny uttamā́ni santu | sáṃ jā́spatyaṃ suyámam ā́ kṛṇuṣva śatrūyatā́m abhí tíṣṭhā mahā́ṃsi ||
O Agni, marshal your host for a great good-fortune; let your highest luminous powers be with us. Build in us the lordship of the household of being and a right governance; stand over the hostile motions and surpass them by your greatness.
अग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ । सम् । जः॒ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒ऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥अग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्तमानि । सन्तु । सम् । जःपत्यम् । सुयमम् । आ । कृणुष्व । शत्रुयताम् । अभि । तिष्ठ । महांसि ॥agne | śardha | mahate | saubhagāya | tava | dyumnāni | ut-tamāni | santu | sam | jaḥ-patyam | su-yamam | ā | kṛṇuṣva | śatru-yatām | abhi | tiṣṭha | mahāṃsi