Sukta 5.28
समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये । विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥
स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ । विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥
samidhyámāno amṛ́tasya rājasi havíṣ kṛṇvántam sacase svastáye | víśvaṃ sá dhatte dráviṇaṃ yám ínvasy ātíthyam agne ní ca dhatte ít púraḥ ||
As you blaze in the realm of immortality, you companion the one who prepares the offering, for his well-being. You place in him the whole wealth of being; and the hospitality he extends, O Agni, you establish it firmly in the front of his life.
स॒म्ऽइ॒ध्यमा॑नः । अ॒मृत॑स्य । रा॒ज॒सि॒ । ह॒विः । कृ॒ण्वन्त॑म् । स॒च॒से॒ । स्व॒स्तये॑ । विश्व॑म् । सः । ध॒त्ते॒ । द्रवि॑णम् । यम् । इन्व॑सि । आ॒ति॒थ्यम् । अ॒ग्ने॒ । नि । च॒ । ध॒त्ते॒ । इत् । पु॒रः ॥सम्इध्यमानः । अमृतस्य । राजसि । हविः । कृण्वन्तम् । सचसे । स्वस्तये । विश्वम् । सः । धत्ते । द्रविणम् । यम् । इन्वसि । आतिथ्यम् । अग्ने । नि । च । धत्ते । इत् । पुरः ॥sam-idhyamānaḥ | amṛtasya | rājasi | haviḥ | kṛṇvantam | sacase | svastaye | viśvam | saḥ | dhatte | draviṇam | yam | invasi | ātithyam | agne | ni | ca | dhatte | it | puraḥ