Sukta 5.28
समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति । एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥
समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति । एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥
sámiddho agnír diví śócir aśret pratyáṅ uṣásam urviyā́ ví bhāti | éti prā́cī viśvávārā námo-bhir devā́n īḷānā havíṣā ghṛtā́cī ||
Kindled, Agni’s flame in heaven shoots forth; facing the Dawn it shines wide and far. The Dawn comes from the East, bearer of all desirable things; with acts of reverence she calls the gods, offering the oblation, moving in streams of clarified will.
सम्ऽइ॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्वि॒या । वि । भा॒ति॒ । एति॑ । प्राची॑ । वि॒श्वऽवा॑रा । नमः॑ऽभिः । दे॒वान् । ईळा॑ना । ह॒विषा॑ । घृ॒ताची॑ ॥सम्इद्धः । अग्निः । दिवि । शोचिः । अश्रेत् । प्रत्यङ् । उषसम् । उर्विया । वि । भाति । एति । प्राची । विश्ववारा । नमःभिः । देवान् । ईळाना । हविषा । घृताची ॥sam-iddhaḥ | agniḥ | divi | śociḥ | aśret | pratyaṅ | uṣasam | urviyā | vi | bhāti | eti | prācī | viśva-vārā | namaḥ-bhiḥ | devān | īḷānā | haviṣā | ghṛtācī