Sukta 5.26
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः । स्तृणीत बर्हिरासदे ॥
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः । स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥
prá yajñá étv ānuṣág adyā́ devávyacastamaḥ | stṛṇītá bárhir āsáde ||
Let the sacrifice go forth today in its ordered succession, most wide in its divine reach; spread the sacred seat so that the Powers may sit in the prepared consciousness.
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः । स्तृ॒णी॒त । ब॒र्हिः । आ॒ऽसदे॑ ॥प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःतमः । स्तृणीत । बर्हिः । आसदे ॥pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ | stṛṇīta | barhiḥ | āsade