Sukta 5.26
न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । दधाता देवमृत्विजम् ॥
न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् । दधा॑ता दे॒वमृ॒त्विज॑म् ॥
ny àgníṃ jātávedasaṃ hotravā́haṃ yáviṣṭhyam | dádhātā devám ṛtvíjam ||
Set down Agni, Jātavedas, the bearer of the offering-call, the youngest and ever-new; establish the divine priest of the right season within the work.
नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । हो॒त्र॒ऽवाहम् । यवि॑ष्ठ्यम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ॥नि । अग्निम् । जातवेदसम् । होत्रवाहम् । यविष्ठ्यम् । दधात । देवम् । ऋत्विजम् ॥ni | agnim | jāta-vedasam | hotra-vāham | yaviṣṭhyam | dadhāta | devam | ṛtvijam